Original

कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ।तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे ॥ २० ॥

Segmented

काल-अग्निः इव संक्रुद्धो याम् याम् दिशम् अवैक्षत तस्याम् तस्याम् भय-त्रस्ताः राक्षसाः संनिलिल्यिरे

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
तस्याम् तद् pos=n,g=f,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
भय भय pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
संनिलिल्यिरे संनिली pos=v,p=3,n=p,l=lit