Original

सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः ।अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ १३ ॥

Segmented

सर्वे भवन्तः तिष्ठन्तु महा-राजेन संगताः अहम् एको हनिष्यामि राघवम् सहलक्ष्मणम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तः भवत् pos=a,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
राजेन राज pos=n,g=m,c=3,n=s
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
राघवम् राघव pos=n,g=m,c=2,n=s
सहलक्ष्मणम् सहलक्ष्मण pos=a,g=m,c=2,n=s