Original

तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान् ।अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्यः सुचिरं जहर्षिरे ॥ १७ ॥

Segmented

तथा एव रामः प्लवग-अधिपः तदा विभीषणः च ऋक्ष-पतिः च जाम्बवान् अवेक्ष्य सौमित्रिम् अरोगम् उत्थितम् मुदा स सैन्यः सु चिरम् जहर्षिरे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रामः राम pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तदा तदा pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
ऋक्ष ऋक्ष pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
अवेक्ष्य अवेक्ष् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अरोगम् अरोग pos=a,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
सु सु pos=i
चिरम् चिरम् pos=i
जहर्षिरे हृष् pos=v,p=3,n=p,l=lit