Original

ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ।बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ १२ ॥

Segmented

ते तस्य कायम् निर्भिद्य रुक्म-पुङ्खाः निमित्त-गाः बभूवुः लोहित-आदिग्धाः रक्ता इव महा-उरगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
निर्भिद्य निर्भिद् pos=vi
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
निमित्त निमित्त pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
लोहित लोहित pos=n,comp=y
आदिग्धाः आदिह् pos=va,g=m,c=1,n=p,f=part
रक्ता रक्त pos=a,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p