Original

ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः ।चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः ॥ ३४ ॥

Segmented

ते च अस्य हय-मुख्येषु तूर्णम् उत्पत्य वानराः चतुर्षु सु महा-वीर्याः निपेतुः भीम-विक्रमाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
तूर्णम् तूर्णम् pos=i
उत्पत्य उत्पत् pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
सु सु pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p