Original

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥ १७ ॥

Segmented

इति उक्तवान् भ्रातृ-पुत्रेण प्रत्युवाच विभीषणः अजानन्न् इव मद्-शीलम् किम् राक्षस विकत्थसे

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अजानन्न् अजानत् pos=a,g=m,c=1,n=s
इव इव pos=i
मद् मद् pos=n,comp=y
शीलम् शील pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat