Original

एवमुक्तो महातेजा मनस्वी रावणात्मजः ।अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥

Segmented

एवम् उक्तो महा-तेजाः मनस्वी रावण-आत्मजः अब्रवीत् परुषम् वाक्यम् तत्र दृष्ट्वा विभीषणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s