Original

कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥ ३ ॥

Segmented

कैलास-शिखर-आवासी यक्षैः बहुभिः आवृतः सु महत् कदनम् कृत्वा वश्यः ते धनदः कृतः

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
आवासी आवासिन् pos=a,g=m,c=1,n=s
यक्षैः यक्ष pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
वश्यः वश्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धनदः धनद pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part