Original

तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।विधेयाश्व समायुक्तः सुदूरमपवाहितः ॥ १० ॥

Segmented

ताम् आपतन्तीम् दृष्ट्वा एव रथः सारथिना तदा विधेय-अश्व-समायुक्तः सु दूरम् अपवाहितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
रथः रथ pos=n,g=m,c=1,n=s
सारथिना सारथि pos=n,g=m,c=3,n=s
तदा तदा pos=i
विधेय विधा pos=va,comp=y,f=krtya
अश्व अश्व pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
दूरम् दूरम् pos=i
अपवाहितः अपवाहय् pos=va,g=m,c=1,n=s,f=part