Original

यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा ।एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४१ ॥

Segmented

यदि एष भूमिम् विशते दिवम् वा रसातलम् वा अपि नभस्तलम् वा एवम् निगूढो ऽपि मे अस्त्र-दग्धः पतिष्यते भूमि-तले गतासुः

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
विशते विश् pos=v,p=3,n=s,l=lat
दिवम् दिव् pos=n,g=m,c=2,n=s
वा वा pos=i
रसातलम् रसातल pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s
वा वा pos=i
एवम् एवम् pos=i
निगूढो निगुह् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
पतिष्यते पत् pos=v,p=3,n=s,l=lrt
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s