Original

ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् ।निशाचरैः प्लवंगानां देवानां दानवैरिव ॥ २ ॥

Segmented

ततः प्रवृत्तम् सु महत् तद् युद्धम् लोम-हर्षणम् निशाचरैः प्लवंगानाम् देवानाम् दानवैः इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
निशाचरैः निशाचर pos=n,g=m,c=3,n=p
प्लवंगानाम् प्लवंग pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
दानवैः दानव pos=n,g=m,c=3,n=p
इव इव pos=i