Original

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ।सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥ १३ ॥

Segmented

मकराक्षस्य तत् श्रुत्वा वचनम् ते निशाचराः सर्वे नाना आयुध-उपेताः बलवन्तः समाहिताः

Analysis

Word Lemma Parse
मकराक्षस्य मकराक्ष pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p