Original

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ।अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥ ९ ॥

Segmented

मैन्दः तु भ्रातरम् दृष्ट्वा भग्नम् तत्र महा-आहवे अभिदुद्राव वेगेन प्रगृह्य महतीम् शिलाम्

Analysis

Word Lemma Parse
मैन्दः मैन्द pos=n,g=m,c=1,n=s
तु तु pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s