Original

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ॥ ४७ ॥

Segmented

तथा एव अपि अपरे तेषाम् कपीनाम् असिभिः शितैः प्रवीरान् अभितो जघ्नुः घोर-रूपाः निशाचराः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अपि अपि pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
कपीनाम् कपि pos=n,g=m,c=6,n=p
असिभिः असि pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
अभितो अभितस् pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p