Original

शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ॥ १० ॥

Segmented

शयनेषु महार्हेषु प्रसुप्तानाम् प्रियैः सह त्रस्तानाम् गच्छताम् तूर्णम् पुत्रान् आदाय सर्वतः

Analysis

Word Lemma Parse
शयनेषु शयन pos=n,g=n,c=7,n=p
महार्हेषु महार्ह pos=a,g=n,c=7,n=p
प्रसुप्तानाम् प्रस्वप् pos=va,g=m,c=6,n=p,f=part
प्रियैः प्रिय pos=a,g=m,c=3,n=p
सह सह pos=i
त्रस्तानाम् त्रस् pos=va,g=m,c=6,n=p,f=part
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
तूर्णम् तूर्णम् pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
सर्वतः सर्वतस् pos=i