Original

स तत्तदा वानरराजसैन्यं रामं च संख्ये सहलक्ष्मणेन ।विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ॥ ४९ ॥

Segmented

स तत् तदा वानर-राज-सैन्यम् रामम् च संख्ये सह लक्ष्मणेन विषादयित्वा सहसा विवेश पुरीम् दशग्रीव-भुज-अभिगुप्ताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
वानर वानर pos=n,comp=y
राज राजन् pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
विषादयित्वा विषादय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
दशग्रीव दशग्रीव pos=n,comp=y
भुज भुज pos=n,comp=y
अभिगुप्ताम् अभिगुप् pos=va,g=f,c=2,n=s,f=part