Original

ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः ।रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥ ३० ॥

Segmented

ते शक्रजित्-बाण-विशीर्ण-देहाः माया-हताः विस्वरम् उन्नदन्तः रणे निपेतुः हरयो अद्रि-कल्पाः यथा इन्द्र-वज्र-अभिहताः नग-इन्द्राः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शक्रजित् शक्रजित् pos=n,comp=y
बाण बाण pos=n,comp=y
विशीर्ण विशृ pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
माया माया pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
उन्नदन्तः उन्नद् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
हरयो हरि pos=n,g=m,c=1,n=p
अद्रि अद्रि pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
यथा यथा pos=i
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
नग नग pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p