Original

स संधाय महातेजास्तं बाणं सहसोत्सृजत् ।ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८० ॥

Segmented

स संधाय महा-तेजाः तम् बाणम् सहसा उत्सृजत् ततः सौमित्रिम् आयान्तम् आजघान स्तनान्तरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
उत्सृजत् उत्सृज् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s