Original

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे ॥ ६७ ॥

Segmented

तम् निकृत्तम् शरम् दृष्ट्वा कृत्त-भोगम् इव उरगम् अतिकायो भृशम् क्रुद्धः पञ्च-बाणान् समाददे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निकृत्तम् निकृत् pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कृत्त कृत् pos=va,comp=y,f=part
भोगम् भोग pos=n,g=m,c=2,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s
अतिकायो अतिकाय pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
बाणान् बाण pos=n,g=m,c=2,n=p
समाददे समादा pos=v,p=3,n=s,l=lit