Original

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ।गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५० ॥

Segmented

बालः त्वम् असि सौमित्रे विक्रमेषु अविचक्षणः गच्छ किम् काल-सदृशम् माम् योधयितुम् इच्छसि

Analysis

Word Lemma Parse
बालः बाल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
विक्रमेषु विक्रम pos=n,g=m,c=7,n=p
अविचक्षणः अविचक्षण pos=a,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
किम् किम् pos=i
काल काल pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
योधयितुम् योधय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat