Original

तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता ।अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४५ ॥

Segmented

तत् तस्य वाक्यम् ब्रुवतो निशम्य चुकोप सौमित्रिः अमित्र-हन्ता अमृष्यमाणः च समुत्पपात जग्राह चापम् च ततः स्मयित्वा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
निशम्य निशामय् pos=vi
चुकोप कुप् pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
pos=i
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
चापम् चाप pos=n,g=m,c=2,n=s
pos=i
ततः ततस् pos=i
स्मयित्वा स्मि pos=vi