Original

अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् ।मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥ ८६ ॥

Segmented

अथ अङ्गदः मुष्टि-विभिद्-मूर्धा सुस्राव तीव्रम् रुधिरम् भृश-उष्णम् मुहुः विजज्वाल मुमोह च अपि संज्ञाम् समासाद्य विसिष्मिये च

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
मुष्टि मुष्टि pos=n,comp=y
विभिद् विभिद् pos=va,comp=y,f=part
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
भृश भृश pos=a,comp=y
उष्णम् उष्ण pos=a,g=n,c=2,n=s
मुहुः मुहुर् pos=i
विजज्वाल विज्वल् pos=v,p=3,n=s,l=lit
मुमोह मुह् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
विसिष्मिये विस्मि pos=v,p=3,n=s,l=lit
pos=i