Original

यावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः ।तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ ६६ ॥

Segmented

यावद् उत्पाटयामासुः वृक्षान् शैलान् वनौकसः तावत् प्रास-हताः पेतुः वज्र-कृत्ताः इव अचलाः

Analysis

Word Lemma Parse
यावद् यावत् pos=i
उत्पाटयामासुः उत्पाटय् pos=v,p=3,n=p,l=lit
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
तावत् तावत् pos=i
प्रास प्रास pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
वज्र वज्र pos=n,comp=y
कृत्ताः कृत् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p