Original

ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४४ ॥

Segmented

ते राक्षस-बलम् घोरम् प्रविश्य हरि-यूथपाः विचेरुः उद्यतैः शैलैः नगाः शिखरिणो यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
शैलैः शैल pos=n,g=m,c=3,n=p
नगाः नग pos=n,g=m,c=1,n=p
शिखरिणो शिखरिन् pos=a,g=m,c=1,n=p
यथा यथा pos=i