Original

मन्ये न तावदात्मानं बुध्यते वानराधिपः ।शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ५९ ॥

Segmented

मन्ये न तावद् आत्मानम् बुध्यते वानर-अधिपः शैल-प्रहार-अभिहतः कुम्भकर्णेन संयुगे

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
तावद् तावत् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
प्रहार प्रहार pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णेन कुम्भकर्ण pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s