Original

ततः समुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः ।शृण्वन्निनादं त्रिदशालयानां प्लवंगराजग्रहविस्मितानाम् ॥ ५२ ॥

Segmented

ततः समुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षस-इन्द्रैः शृण्वन् निनादम् त्रिदश-आलयानाम् प्लवंग-राज-ग्रह-विस्मितानाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्पाट्य समुत्पाटय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
निनादम् निनाद pos=n,g=m,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
आलयानाम् आलय pos=n,g=m,c=6,n=p
प्लवंग प्लवंग pos=n,comp=y
राज राजन् pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
विस्मितानाम् विस्मि pos=va,g=m,c=6,n=p,f=part