Original

तच्छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले ।ततो विषेदुः सहसा प्लवंगमा रक्षोगणाश्चापि मुदा विनेदुः ॥ ४४ ॥

Segmented

तत् शैल-शृङ्गम् सहसा विकीर्णम् भुजान्तरे तस्य तदा विशाले ततो विषेदुः सहसा प्लवंगमा रक्षः-गणाः च अपि मुदा विनेदुः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शैल शैल pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विकीर्णम् विकृ pos=va,g=n,c=1,n=s,f=part
भुजान्तरे भुजान्तर pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तदा तदा pos=i
विशाले विशाल pos=a,g=n,c=7,n=s
ततो ततस् pos=i
विषेदुः विषद् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
प्लवंगमा प्लवंगम pos=n,g=m,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit