Original

स तन्महापर्वतकूटसंनिभं विवृत्तदंष्ट्रं चलचारुकुण्डलम् ।चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः ॥ १२३ ॥

Segmented

स तत् महा-पर्वत-कूट-संनिभम् विवृत्त-दंष्ट्रम् चल-चारु-कुण्डलम् चकर्त रक्षः-अधिपतेः शिरः तदा यथा एव वृत्रस्य पुरा पुरंदरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
कूट कूट pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
विवृत्त विवृत् pos=va,comp=y,f=part
दंष्ट्रम् दंष्ट्र pos=n,g=n,c=2,n=s
चल चल pos=a,comp=y
चारु चारु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
यथा यथा pos=i
एव एव pos=i
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
पुरा पुरा pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s