Original

अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् ।लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ३५ ॥

Segmented

अद्य रामस्य पश्यन्तु निधनम् सु महत् प्रियम् लङ्कायाम् राक्षसाः सर्वे ये ते निहत-बान्धवाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
निधनम् निधन pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
बान्धवाः बान्धव pos=n,g=m,c=1,n=p