Original

केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति ।केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ॥ ८६ ॥

Segmented

केचिच् छरण्यम् शरणम् स्म रामम् व्रजन्ति केचिद् व्यथिताः पतन्ति केचिद् दिशः स्म व्यथिताः प्रयान्ति केचिद् भय-आर्ताः भुवि शेरते स्म

Analysis

Word Lemma Parse
केचिच् कश्चित् pos=n,g=m,c=1,n=p
छरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
स्म स्म pos=i
रामम् राम pos=n,g=m,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
पतन्ति पत् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
स्म स्म pos=i
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat
स्म स्म pos=i