Original

अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ५८ ॥

Segmented

अथवा ध्रुवम् अन्येभ्यो भयम् परम् उपस्थितम् यद्-अर्थम् एव त्वरितैः भवद्भिः प्रतिबोधितः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
ध्रुवम् ध्रुवम् pos=i
अन्येभ्यो अन्य pos=n,g=m,c=5,n=p
भयम् भय pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
त्वरितैः त्वरित pos=a,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part