Original

ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः ।मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा ।दशराक्षससाहस्रं युगपत्पर्यवादयन् ॥ ३५ ॥

Segmented

ततो ऽस्य पुरतो गाढम् राक्षसा भीम-विक्रमाः मृदङ्ग-पणवान् भेरीः शङ्ख-कुम्भ-गणान् तथा दश-राक्षस-साहस्रम् युगपत् पर्यवादयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
गाढम् गाढम् pos=i
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
मृदङ्ग मृदङ्ग pos=n,comp=y
पणवान् पणव pos=n,g=m,c=2,n=p
भेरीः भेरी pos=n,g=f,c=2,n=p
शङ्ख शङ्ख pos=n,comp=y
कुम्भ कुम्भ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तथा तथा pos=i
दश दशन् pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
युगपत् युगपद् pos=i
पर्यवादयन् परिवादय् pos=v,p=3,n=p,l=lan