Original

तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।आरोहत्सहसा शूरो हनूमन्तं महाकपिम् ।रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥ ११८ ॥

Segmented

तत् श्रुत्वा राघवो वाक्यम् वायुपुत्रेण भाषितम् आरोहत् सहसा शूरो हनूमन्तम् महा-कपि रथ-स्थम् रावणम् संख्ये ददर्श मनुज-अधिपः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वायुपुत्रेण वायुपुत्र pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
आरोहत् आरुह् pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
शूरो शूर pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s