Original

तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः ।तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ॥ १०३ ॥

Segmented

ताम् आपतन्तीम् भरत-अनुजः ऽस्त्रैः जघान बाणैः च हुत-अग्नि-कल्पैः तथा अपि सा तस्य विवेश शक्तिः भुजान्तरम् दाशरथेः विशालम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
भरत भरत pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
ऽस्त्रैः अस्त्र pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
हुत हु pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
तथा तथा pos=i
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
शक्तिः शक्ति pos=n,g=f,c=1,n=s
भुजान्तरम् भुजान्तर pos=n,g=n,c=2,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
विशालम् विशाल pos=a,g=n,c=2,n=s