Original

ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥ १० ॥

Segmented

ततो नगर्याः सहसा महा-ओजाः निष्क्रम्य तद् वानर-सैन्यम् उग्रम् महा-अर्णव-अभ्र-स्तनितम् ददर्श समुद्यतम् पादप-शैल-हस्तम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नगर्याः नगरी pos=n,g=f,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
निष्क्रम्य निष्क्रम् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्णव अर्णव pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
स्तनितम् स्तनित pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
समुद्यतम् समुद्यम् pos=va,g=n,c=2,n=s,f=part
पादप पादप pos=n,comp=y
शैल शैल pos=n,comp=y
हस्तम् हस्त pos=n,g=n,c=2,n=s