Original

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः ।शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः ॥ ५ ॥

Segmented

जगृहुः पादपान् च अपि पुष्पितान् वानर-ऋषभाः शिलाः च विपुला दीर्घा योद्धु-कामाः प्लवंगमाः

Analysis

Word Lemma Parse
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
पादपान् पादप pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
शिलाः शिला pos=n,g=f,c=2,n=p
pos=i
विपुला विपुल pos=a,g=f,c=2,n=p
दीर्घा दीर्घ pos=a,g=f,c=2,n=p
योद्धु योद्धु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p