Original

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ।ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान् ॥ ३० ॥

Segmented

ततः सृजन्तम् बाण-ओघान् प्रहस्तम् स्यन्दने स्थितम् ददर्श तरसा नीलो विनिघ्नन्तम् प्लवंगमान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
बाण बाण pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
नीलो नील pos=n,g=m,c=1,n=s
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
प्लवंगमान् प्लवंगम pos=n,g=m,c=2,n=p