Original

अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥

Segmented

अकम्पनः तु तद् दृष्ट्वा गिरि-शृङ्गम् समुद्यतम् दूराद् एव महा-बाणैः अर्धचन्द्रैः व्यदारयत्

Analysis

Word Lemma Parse
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
गिरि गिरि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
समुद्यतम् समुद्यम् pos=va,g=n,c=2,n=s,f=part
दूराद् दूर pos=a,g=n,c=5,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
व्यदारयत् विदारय् pos=v,p=3,n=s,l=lan