Original

तदप्रियं दीनमुखा रावणस्य निशाचराः ।कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥

Segmented

तद् अप्रियम् दीन-मुखाः रावणस्य निशाचराः कृत्स्नम् निवेदयामासुः यथावद् वाक्य-कोविदाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
दीन दीन pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
निशाचराः निशाचर pos=n,g=m,c=1,n=p
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
निवेदयामासुः निवेदय् pos=v,p=3,n=p,l=lit
यथावद् यथावत् pos=i
वाक्य वाक्य pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p