Original

संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ।स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ।गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ ७२ ॥

Segmented

सम्प्राप्तो मन्त्र-कालः नः सागरस्य इह लङ्घने स्वाम् स्वाम् सेनाम् समुत्सृज्य मा च कश्चित् कुतो व्रजेत् गच्छन्तु वानराः शूरा ज्ञेयम् छन्नम् भयम् च नः

Analysis

Word Lemma Parse
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सागरस्य सागर pos=n,g=m,c=6,n=s
इह इह pos=i
लङ्घने लङ्घन pos=n,g=n,c=7,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
मा मा pos=i
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
वानराः वानर pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p