Original

ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः ।ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ १ ॥

Segmented

ततो द्याम् पृथिवीम् च एव वीक्षमाणा वनौकसः ददृशुः संततौ बाणैः भ्रातरौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्याम् दिव् pos=n,g=,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
वीक्षमाणा वीक्ष् pos=va,g=m,c=1,n=p,f=part
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
संततौ संतन् pos=va,g=m,c=2,n=d,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d