Original

रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् ।भृशमावेशयामास रावणिः समितिंजयः ॥ ७ ॥

Segmented

राम-लक्ष्मणयोः एव सर्व-मर्म-भिदः शरान् भृशम् आवेशयामास रावणिः समितिंजयः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
एव एव pos=i
सर्व सर्व pos=n,comp=y
मर्म मर्मन् pos=n,comp=y
भिदः भिद् pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
आवेशयामास आवेशय् pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s