Original

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।अस्त्रवित्परमास्त्रेण वारयामास रावणिः ॥ ५ ॥

Segmented

तेषाम् वेगवताम् वेगम् इषुभिः वेगवत्तरैः अस्त्र-विद् परम-अस्त्रेण वारयामास रावणिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वेगवताम् वेगवत् pos=a,g=m,c=6,n=p
वेगम् वेग pos=n,g=m,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
वेगवत्तरैः वेगवत्तर pos=a,g=m,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s