Original

तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् ।उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः ॥ १७ ॥

Segmented

तेषाम् आपतताम् शब्दः क्रुद्धानाम् अभिगर्जताम् उद्वर्त इव सप्तानाम् समुद्राणाम् अभूत् स्वनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
क्रुद्धानाम् क्रुध् pos=va,g=m,c=6,n=p,f=part
अभिगर्जताम् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part
उद्वर्त उद्वर्त pos=n,g=m,c=1,n=s
इव इव pos=i
सप्तानाम् सप्तन् pos=n,g=m,c=6,n=p
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
अभूत् भू pos=v,p=3,n=s,l=lun
स्वनः स्वन pos=n,g=m,c=1,n=s