Original

हतानां स्तनमानानां राक्षसानां च निस्वनः ।शस्त्राणां वानराणां च संबभूवातिदारुणः ॥ १३ ॥

Segmented

हतानाम् स्तनमानानाम् राक्षसानाम् च निस्वनः शस्त्राणाम् वानराणाम् च संबभूव अति दारुणः

Analysis

Word Lemma Parse
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
स्तनमानानाम् स्तन् pos=va,g=m,c=6,n=p,f=part
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
संबभूव सम्भू pos=v,p=3,n=s,l=lit
अति अति pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s