Original

ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान् ॥ २८ ॥

Segmented

ते गदाभिः प्रदीप्ताभिः शक्ति-शूल-परश्वधैः निजघ्नुः वानरान् घोराः कथयन्तः स्व-विक्रमान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
प्रदीप्ताभिः प्रदीप् pos=va,g=f,c=3,n=p,f=part
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p
घोराः घोर pos=a,g=m,c=1,n=p
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p