Original

निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।समये पूर्यमाणस्य वेगा इव महोदधेः ॥ २६ ॥

Segmented

निष्पतन्ति ततः सैन्या हृष्टा रावण-चोदिताः समये पूर्यमाणस्य वेगा इव महा-उदधेः

Analysis

Word Lemma Parse
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
ततः ततस् pos=i
सैन्या सैन्य pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
रावण रावण pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
समये समय pos=n,g=m,c=7,n=s
पूर्यमाणस्य पृ pos=va,g=m,c=6,n=s,f=part
वेगा वेग pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s