Original

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् ।ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ ६३ ॥

Segmented

सो ऽतिपत्य मुहूर्तेन श्रीमान् रावण-मन्दिरम् ददर्श आसीनम् अव्यग्रम् रावणम् सचिवैः सह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिपत्य अतिपत् pos=vi
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
रावण रावण pos=n,comp=y
मन्दिरम् मन्दिर pos=n,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i