Original

न चैव वानरा हन्तुं शक्याः पादपयोधिनः ।सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ ८ ॥

Segmented

न च एव वानरा हन्तुम् शक्याः पादप-योधिनः सुरा देव-ऋषभेण इव रामेण हि सु रक्षिताः

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
वानरा वानर pos=n,g=m,c=1,n=p
हन्तुम् हन् pos=vi
शक्याः शक्य pos=a,g=m,c=1,n=p
पादप पादप pos=n,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
इव इव pos=i
रामेण राम pos=n,g=m,c=3,n=s
हि हि pos=i
सु सु pos=i
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part