Original

स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः ।विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ ४३ ॥

Segmented

स विद्युज्जिह्वेन सह एव तत् शिरः धनुः च भूमौ विनिकीर्य रावणः विदेह-राजस्य सुताम् यशस्विनीम् ततो ऽब्रवीत् ताम् भव मे वश-अनुगा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्युज्जिह्वेन विद्युज्जिह्व pos=n,g=m,c=3,n=s
सह सह pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
विनिकीर्य विनिकृ pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
विदेह विदेह pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
भव भू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वश वश pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s